Home > saikumar (Page 3)

ताजमहल (Taj Mahal)

ताजभवनम् आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः

Read More

गङ्गानदी (Ganga)

गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी| भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे यमुना गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।गङ्गायां द्विविधौ शिशुमारौ(मत्स्यविशेषः) स्तः। तौ गङ्गाशिशुमारः

Read More

हिमालयः (Himalay)

भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च

Read More

भारतम् (India)

भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे आर्यावर्ते स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत‌: देश: एष: । एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः,

Read More

पृथ्वी (Earth)

पृथ्वी  कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः अपि अस्ति, येन श्वसनतन्त्रं चलति

Read More