Home > Festivals

मकरसङ्क्रमणम् (Makarsankranti)

मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं

Read More

विजयादशमी (Vijayadashmi)

भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । केचन देवीं पूजयितुं मन्दिरं गच्छन्ति । नवरात्रे पूजितायाः देव्याः निर्माल्यस्य वितरणं दशम्यां भवति । दशम्याम् अवरे जनाः मान्येभ्यो जनेभ्यो देव्याः निर्माल्यं स्वीकुर्वन्ति । तत्र मान्यजना देव्याः घटस्य जलेन अवरान् जनानभिषिच्य देव्याःपूजने प्रयुक्तस्य चन्दनस्य शेषेण

Read More

स्वातन्त्र्यदिनोत्सवः (Independence Day)

भारतस्वतन्त्रतादिनम्  'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत्

Read More

दीपावलिः (Diwali)

दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं

Read More

कृष्णजन्माष्टमी (Krishna Janmashtami)

श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते । गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः भारतस्य सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महाविष्णोः नवमः अवतारः । अयं मार्त्यलोके अवतीर्णः चेदपि साक्षात्

Read More